|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.112. अध्यायः 112
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रति चान्द्रायणविधिनिरूपणपूर्वकं तदाचरणफलकथनम्॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
युधिष्ठिर उवाच।
चक्रायुध नमस्तेऽस्तु देवेश गरुडध्वज।
चान्द्रायणविधिं पुण्यमाख्याहि भगवन्मम॥ 14-112-1(96576)
भगवानुवाच। 14-112-2x(7992)
शृणु पाण्डव तत्वेन सर्वपापप्रणाशनम्।
पापिनो येन शुद्ध्यन्ति तत्ते वक्ष्यामि सर्वशः॥ 14-112-2(96577)
ब्राह्मणः क्षत्रियो वाऽपि वैश्यो वा चरितव्रतः।
यथावत्कर्तुकामो वै तस्यैवं प्रथमा क्रिया॥ 14-112-3(96578)
शोधयेत्तु शरीरं स्वं पञ्चगव्येन यन्त्रितः।
सशिरः कृष्णपक्षस्य ततः कुर्वीत वापनम्॥ 14-112-4(96579)
शुक्लवासाः शुचिर्भूत्वा मौञ्जीं बध्नीत मेखलाम्।
पालाशद्ण्डमादाय ब्रह्मचारिव्रते स्थितः॥ 14-112-5(96580)
कृतोपलासः पूर्वं तु शुक्लप्रतिपदि द्विजः।
नदीसंगमतीर्थेषु शुचौ देशे गृहेऽपि वा।
गोमयेनोपलिप्रेऽथ स्थण्डिलेऽग्निं निधापयन्॥ 14-112-6(96581)
आघारावाज्यभागौ च प्रणवं व्याहृतीस्तथा।
वारुणं चैव पञ्चैव हुत्वा सर्वान्यथाक्रमम्॥ 14-112-7(96582)
सत्याय विष्णवे चेति ब्रह्मर्षिभ्योऽथ ब्रह्मणे।
विश्वेभ्यो हि च देवेभ्यः सप्रजापतये तथा॥ 14-112-8(96583)
षडुक्त्वा जुहुयात्पश्चात्प्रायश्चित्ताहुतिं द्विजः।
अतः समापयेदग्निं शान्तिं कृत्वाऽथ पौष्टिकिम्॥ 14-112-9(96584)
प्रणम्य् चाग्निं सोमं च भस्म दिग्ध्वा यथाविधि।
नदीं गत्वा विशुद्धात्मा सोमाय वरुणाय च।
आदित्याय नमस्कृत्वा ततः स्नायात्समाहितः॥ 14-112-10(96585)
उत्तीर्योदकमाचम्य चासीनः पूर्वतोमुखः।
प्राणायामं ततः कृत्वा पवित्रैरभिषेचनम्॥ 14-112-11(96586)
आचान्तस्त्वमिवीक्षेत ऊर्ध्वबाहुर्दिवाकरम्।
कृताञ्जलिपुटः स्थित्वा कुर्याच्चैव प्रदक्षिणम्॥ 14-112-12(96587)
नारायणं वा रुद्रं वा ब्रह्मणमथवाऽपि च।
वारुणं मन्त्रमूक्तं वा प्राग्भोजनमथापि वा॥ 14-112-13(96588)
वीरघ्नमृषभफं वाऽपि तथा चाप्यघमर्षणम्।
गायत्रीं मम देवीं वा सावित्रीं वा जपेत्ततः।
शतं वाऽष्टशतं वाऽपि सहस्रमथवा परम्॥ 14-112-14(96589)
ततो मध्याह्नकाले वै पायसं यावकं हि वा।
पाचयित्वा प्रयत्नेन प्रयतः सुसमाहितः॥ 14-112-15(96590)
पात्रं तु सुसमादाय सौवर्णं राजतं तु वा।
ताम्रं वा मृन्मयं वापि औदुंबरमथापि वा। 14-112-16(96591)
वृक्षाणां याज्ञियानं तु पर्णैरार्द्रैरकुत्सितैः।
पुटकेन तु गुप्तेनि चरेद्भैक्षं समाहितः॥ 14-112-17(96592)
ब्राह्मणानां गृहाणां तु सप्तानां नापरं व्रजेत्।
गोदोहमात्रं तिष्ठित्तु वाग्यतः संयतेन्द्रियः॥ 14-112-18(96593)
न हसेन्न च वीक्षेत नाभिभाषेत वा स्त्रियम्॥ 14-112-19(96594)
दृष्ट्वा मूत्रं पुरीषं वा चण्डालं वा रजस्वलाम्।
पतितं च तथा श्वानमादित्यमवलोकयेत्॥ 14-112-20(96595)
यो हि पादुकमारुह्य सर्वदा प्रचरेद्द्विजः।
तं दृष्ट्वा पापकर्माणमादित्यमवलोकयेत्॥ 14-112-21(96596)
ततस्त्वावसथं प्राप्तो भिक्षां निक्षिप्य भूतले।
प्रक्षाल्य पादावाजान्वोर्हस्तावाकूर्परं पुनः।
आचम्य वारिणा तेन वह्निं विप्रांश्च पूययेत्॥ 14-112-22(96597)
पञ्च सप्ताथवा कुर्याद्भागान्भैक्षस्य तस्य वै।
तेषामन्यतमं पिण्डमादित्याय निवेदयेत्॥ 14-112-23(96598)
ब्रह्मणे चाग्नये चैव सोमाय वरुणाय च।
विश्वेभ्यश्चैव देवेभ्यो दद्यादन्नं यथाक्रमम्॥ 14-112-24(96599)
अवशिष्टमथैकं तु वक्त्रमात्रं प्रकल्पयेत्॥ 14-112-25(96600)
अङ्गुल्यग्रे स्थितं पिण्डं गायत्र्या चाभिमन्त्रयेत्।
अङ्गुलीभिस्त्रिभिः पिण्डं प्राश्नीयात्प्राङ्मुखःक शुचिः। 14-112-26(96601)
यथा च वर्धते सोमो ह्रसते च यथा पुनः।
तथा पिण्डाश्च वर्धन्ते ह्रसन्ते च दिनेदिने॥ 14-112-27(96602)
त्रिकालं स्नानमस्योक्तं द्विकालमथवा सकृत्।
ब्रह्मचारी सदा वाऽपि न च वस्त्रं प्रपीडयेत्॥ 14-112-28(96603)
स्थान न दिवसं तिष्ठेद्रात्रौ वीरासनं व्रजेत्।
भवेत्स्थण्डिलशायी वाऽप्यथा वृक्षमूलिकः॥ 14-112-29(96604)
वल्कलं यदि वा क्षौमं शाणं कार्पासकं तथा।
आच्छादनं भवेत्तस्य वस्त्रार्थं पाण्डुनन्दन॥ 14-112-30(96605)
एवं चान्द्रायणे पूर्णे मासस्यान्ते प्रयत्नवान्।
ब्राह्मणान्भोजयेद्भक्त्या दद्याच्चैव च दक्षिणाम्॥ 14-112-31(96606)
चान्द्रायणेन चीर्णेन यत्कृतं तेन दुष्कृतम्।
तत्सर्वं तत्क्षणादेव भस्मीभवति काष्ठवत्॥ 14-112-32(96607)
ब्रह्महत्या च गोहत्या सुवर्णस्तैन्यमेव च।
भ्रूणहत्या सुरापानं गुरोर्दारव्यतिक्रमः॥ 14-112-33(96608)
एवमन्यानि पापानि पातकीयानि यानि च।
चान्द्रायणेन नश्यन्ति वायुना पांसवो यथा॥ 14-112-34(96609)
अनिर्दशाया गोः क्षीरमौष्ठ्रमाविकमेव च।
मृतसूतकयोश्चान्नं भुक्त्वा चान्द्रायणं चरेत्॥ 14-112-35(96610)
उपपातकिनश्चान्नं पतितान्नं तथैव च।
शूद्रस्योच्छेषणं चैव भुक्त्वा चान्द्रायणं चरेत्॥ 14-112-36(96611)
आकाशस्थं तु हस्तस्थमधः स्रस्तं तथैव च।
परहस्तस्थितं चैव भुक्त्वा चान्द्रायणं चरेत्॥ 14-112-37(96612)
अथाग्रेधिषोरन्नं दिधिषूपपतेस्तता।
परिवेत्तुस्तथा चान्नं परिवित्तान्नमेव च॥ 14-112-38(96613)
कुण्डान्नं गोलकान्नं च देवलान्नं तथैव च।
तथा पुरोहितस्यान्नं भुक्त्वा चान्द्रायणं चरेत्॥ 14-112-39(96614)
सुराऽऽसवं विषं सर्पिर्लाक्षा लवणमेव च।
तैलं चापि च विक्रीणन्द्विजश्चान्द्रायणं चरेत्॥ 14-112-40(96615)
एकोद्दिष्टं तु यो भुङ्क्ते जनमध्यगतोऽपि यः।
भिन्नभाण्डेषु यो भुङ्क्ते द्विजश्चान्द्रायणं चरेत्॥ 14-112-41(96616)
यो भुङ्क्तेऽनुपनीतेन यो भुङ्क्ते च स्त्रिया सह।
कन्यया सह यो भुङ्क्ते द्विजश्चान्द्रायणं चरेत्॥ 14-112-42(96617)
उच्छिष्टं स्थापयेद्विप्रो यो मोहाद्भोजनान्तरे।
दद्याद्वा यदि वा मोहाद्विजश्चान्द्रायणं चरेत्॥ 14-112-43(96618)
तुम्बकोशातकं चैव पलाण्डुं गृञ्जनं तथा।
छत्राकं लशुनं चैव भुक्त्वा चान्द्रायणं चरेत्॥ 14-112-44(96619)
द्विजः पर्युषितं चान्नं पक्वं परगृहागतम्।
विपक्वं च तथा मांसं भुक्त्वा चान्द्रायणं चरेत्॥ 14-112-45(96620)
उदक्यया शुना वाऽपि चण्डालैर्वा द्विजोत्तमः।
दृष्टमन्नं तु भुञ्जानो द्विजश्चान्द्रायणं चरेत्॥ 14-112-46(96621)
****तत्पुरा विशुद्ध्यर्थमृषिभिश्चरितं व्रतम्।
पावनं सर्वभूतानां पुण्यं पाण्डवचोदितम्॥ 14-112-47(96622)
एतेन वसवो रुद्राश्चादित्याश्च दिवं गताः।
एतदद्य परं गुह्यं पवित्रं पापनाशनम्॥ 14-112-48(96623)
यथोक्तमेतद्यः कुर्याद्द्विजः पापप्रणाशनम्॥
स दिवं याति पूतात्मा निर्मलादित्यसंनिभः॥ ॥ 14-112-49(96624)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि द्वादशाधिकशततमोऽध्यायः॥ 112 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|